(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.189. अध्यायः 189
Mahabharata - Adi Parva - Chapter Topics
पुनरन्तर्हितायां तपत्यां मोहितस्य संवरणस्य समीपे अमात्यादीनामागमनं॥ 1 ॥ अमात्येनाश्वासितस्य राज्ञः सूर्योपासनसमये वसिष्ठस्यागमनं॥ 2 ॥ सूर्यसमीपं गत्वा वसिष्ठेनादित्यस्तुतिकरणं॥ 3 ॥ स्तुत्या तुष्टेन सूर्येण संवरणार्थं वसिष्ठाय तपतीदानं॥ 4 ॥ तस्मिन्नेव तपतीसंवरणयोर्विवाहः॥ 5 ॥ तया सह तत्रैव रममाणस्य संवरणस्य राज्ये द्वादशवार्षिक्यनावृष्टिः॥ 6 ॥ वसिष्ठेनानावृष्टिनिवर्तनं॥ 7 ॥ तपत्युपाख्यानोपसंहारः॥ 8 ॥
Mahabharata - Adi Parva - Chapter Text

गन्धर्व उवाच। 1-189-0x(1076)(8457)
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता।
`तपतीतपतीत्येव विललापातुरो नृपः॥ 1-189-1(8458)
प्रास्स्वलच्चासकृद्राजा पुनरुत्थाय धावति।
धावमानस्तु तपतीमदृष्ट्वैव महीपतिः।'
स तु राजा पुनर्भूमौ तत्रैव निपपात ह॥ 1-189-2(8459)
अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम्।
अमात्यः सानुयात्रश्च तं ददर्श महावने॥ 1-189-3(8460)
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम्।
त हि दृष्ट्वा महेष्वासं निरस्तं पतितं भुवि॥ 1-189-4(8461)
बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना।
त्वरया चोपसङ्गम्य स्नेहादागतसंभ्रमः॥ 1-189-5(8462)
तं समुत्थापयामास नृपतिं काममोहितम्।
भूतलाद्भूमिपालेशं पितेव पतितं सुतम्॥ 1-189-6(8463)
प्रज्ञया वयसा चैव वृद्धः कीर्त्या नयेन च।
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः॥ 1-189-7(8464)
उवाच चैनं कल्याण्या वाचा मधुरयोत्थिम्।
मा भैर्मनुजशार्दूल भद्रमस्तु तवानघ॥ 1-189-8(8465)
क्षुत्पिपासापरिश्रान्तं तर्कयामास वै नृपम्।
पतितं पातनं सङ्ख्ये शात्रवाणां महीतले॥ 1-189-9(8466)
वारिणा च सुशीतेन शिरस्तस्याभ्यषेचयत्।
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना॥ 1-189-10(8467)
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः।
सर्वं विसर्जयामास तमेकं सचिवं विना॥ 1-189-11(8468)
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम्।
स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत्॥ 1-189-12(8469)
ततस्तस्मिन् गिरिवरे शुचिर्भूत्वा कृताञ्जलिः।
आरिराधयिषुः सूर्यं तस्थावूर्ध्वमुखः क्षितौ॥ 1-189-13(8470)
जगाम मनसा चैव वसिष्ठमृषिसत्तमम्।
पुरोहितममित्रघ्नं तदा संवरणो नृपः॥ 1-189-14(8471)
नक्तन्दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे।
अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि॥ 1-189-15(8472)
स विदित्वैव नृपतिं तपत्या हृतमानसम्।
दिव्येन विधिना ज्ञात्वा भावितात्मा महानृपिः॥ 1-189-16(8473)
तथा तु नियतात्मानं तं नृपं मुनिसत्तमः।
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया॥ 1-189-17(8474)
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः।
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः॥ 1-189-18(8475)
`योजनानां तु नियुतं क्षणाद्गत्वा तपोधनः।'
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः।
वसिष्ठोहमिति प्रीत्या स चात्मानं न्यवेदयत्॥ 1-189-19(8476)
तमुवाच महातेजा विवस्वान्मुनिसत्तमम्।
महर्षे स्वागतं तेऽस्तु कथयस्व यथेप्सितम्॥ 1-189-20(8477)
यदिच्छसि महाभाग मत्तः प्रवदतां वर।
तत्ते दद्यामभिप्रेतं यद्यपि स्यात्सुदुर्लभम्॥ 1-189-21(8478)
एवमुक्तः स तेनर्षिर्वसिष्ठः संस्तुवन्गिरा।
प्रणिपत्य विवस्वन्तं भानुमन्तमथाब्रवीत्॥ 1-189-22(8479)
`योजनानां चतुष्षष्टिं निमेषात्त्रिशतं तथा।
अश्वैर्गच्छति नित्यं यस्तत्पार्श्वस्थोऽब्रवीदिदम्॥ 1-189-23(8480)
वसिष्ठ उवाच। 1-189-24x(1077)
अजाय लोकत्रयपावनाय
भूतात्मने गोपतये वृषाय।
सूर्याय सर्गप्रलयालयाय
नमो महाकारुणिकोत्तमाय॥ 1-189-24(8481)
विवस्वते ज्ञानभृतेऽन्तरात्मने
जगत्प्रदीपाय जगद्धितैषिणे।
स्वयंभुवे दीप्तसहस्रचक्षुषे
सुरोत्तमायामिततेजसे नमः॥ 1-189-25(8482)
नमः सवित्रे जगदेकचक्षुषे
जगत्प्रसूतिस्थितिनाशहेतवे।
त्रयीमयाय त्रिगुणात्मधारिणे
विरिञ्चनारायणशङ्करात्मने॥ 1-189-26(8483)
सूर्य उवाच। 1-189-27x(1078)
संस्तुतो वरदः सोऽहं वरं वरय सुव्रत।
स्तुतिस्त्वयोक्ता भक्तानां जप्येयं वग्दोस्म्यहम्'॥ 1-189-27(8484)
वसिष्ठ उवाच। 1-189-28x(1079)
यैषा ते तपती नाम सावित्र्यवरजा सुता।
तां त्वां संवरणस्यार्थे वरयामि विभावसो॥ 1-189-28(8485)
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः।
युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम॥ 1-189-29(8486)
गन्धर्व उवाच। 1-189-30x(1080)
इत्युक्तः स तदा तेन ददानीत्येव निश्चितः।
प्रत्यभाषत तं विप्रं प्रतीनन्द्य दिवाकरः॥ 1-189-30(8487)
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने।
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात्॥ 1-189-31(8488)
ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम्।
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने॥ 1-189-32(8489)
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा।
वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह॥ 1-189-33(8490)
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत्।
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना॥ 1-189-34(8491)
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम्।
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ॥ 1-189-35(8492)
रुरुचे साऽधिकं सुभ्रूरापतन्ती नभस्तलात्।
सौदामनीव विभ्रष्टा द्योतयन्ती दिशस्त्विषा॥ 1-189-36(8493)
कृच्छ्राद्द्वादशरात्रे तु तस्य राज्ञः समाहिते।
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः॥ 1-189-37(8494)
तपसाऽऽराध्य वरदं देवं गोपतिमीश्वरम्।
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा॥ 1-189-38(8495)
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते।
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः॥ 1-189-39(8496)
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे।
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया॥ 1-189-40(8497)
ततः पुरे च राष्ट्रे च वनेषूपवनेषु च।
आदिदेश महीपालस्तमेव सचिवं तदा॥ 1-189-41(8498)
नृपतिं त्वभ्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे।
सोऽथ राजा गिरौ तस्मिन्विजहारामरो यथा॥ 1-189-42(8499)
ततो द्वादशवर्षाणि काननेषु वनेषु च।
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया॥ 1-189-43(8500)
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सत्तम।
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत॥ 1-189-44(8501)
ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिन्दम।
प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः॥ 1-189-45(8502)
तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे।
नावश्यायः पपातोर्व्यां ततः सस्यानि नाऽरुहन्॥ 1-189-46(8503)
ततो विभ्रान्तमनसो जनाः क्षुद्भपीडिताः।
गृहाणि संपरित्यज्य बभ्रमुः प्रदिशो दिशः॥ 1-189-47(8504)
ततस्तस्मिन्पुरे राष्ट्रे त्यक्तदारपरिग्रहाः।
परस्परममर्यादाः क्षुधार्ता जघ्निरे जनाः॥ 1-189-48(8505)
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तथा नरैः।
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम्॥ 1-189-49(8506)
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः।
अभ्याद्रवत धर्मात्मा वसिष्ठो मुनिसत्तमः॥ 1-189-50(8507)
तं च पार्थिवशार्दूलमानयामास तत्पुरम्।
तपत्या सहितं राजन्वर्षे द्वादशमे गते।
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा॥ 1-189-51(8508)
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः।
प्रववर्ष सहस्राक्षः सस्यानि जनयन्प्रभुः॥ 1-189-52(8509)
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा।
तेन पार्थिवमुख्येन भावितं भावितात्मना॥ 1-189-53(8510)
ततो द्वादश वर्षाणि पुनरीजे नराधिपः।
तपत्या सहितः पत्न्या यथा शच्या मरुत्पतिः॥ 1-189-54(8511)
गन्धर्व उवाच। 1-189-55x(1081)
एवमासीन्महाभागा तपती नाम पौर्विकी।
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः॥ 1-189-55(8512)
तस्यां संजनयामास कुरुं संवरणो नृपः।
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन॥ ॥ 1-189-56(8513)

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोननवत्यधिकशततमोऽध्यायः॥ 189 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-189-10 मुकुटं तत्स्थानं ललाटम्॥ 1-189-15 द्वादशमे द्वादशसंख्यया मिते॥ 1-189-16 दिव्येन विधिना योगबलेन॥ एकोननवत्यधिकशततमोऽध्यायः॥ 189 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.